(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

सभापर्व ~ महाभारत | Mahabharat Sabha Parv In Hindi


॥ श्रीः ॥
2.3. अध्यायः 003
Mahabharata - Sabha Parva - Chapter Topics
सभानिर्माणसामग्र्यानयनाय बिन्दुसरः प्रति मयस्य गमनम्॥1॥ गदाशङ्खाभ्यां सह सामग्रीं गृहीत्वा मयस्य खाण्डवप्रस्थागमनम्॥ 2॥ भीमार्जुनयोः गदाशङ्खदानं सभानिर्माणं च॥ 3॥
Mahabharata - Sabha Parva - Chapter Text

वैशम्पायन उवाच।

अथाब्रवीन्मयः पार्थमर्युनं जयतां वरम्।
आपृच्छे त्वां गमिष्यामि पुनरेष्यामि चाप्यहम्॥ 2-3-1(11328)
`विश्रुतां त्रिषु लोकेषु पार्थ दिव्यां सभां तव।
प्राणिनां विस्मयकरीं तव प्रियविवर्धिनीम्।
पाण्डवानां च सर्वेषां करिष्यामि धनञ्जय'॥ 2-3-2(11329)
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति।
यियक्षमाणेषु पुरा दानवेषु मया कृतम्॥ 2-3-3(11330)
चित्रं मणिमयं भाण्डं रम्यं बिन्दुसारः प्रति।
सभायां सत्यसन्धस्य यदासीद्वृषपर्वणः॥ 2-3-4(11331)
आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत।
ततः सभां करिष्यामि पाण्डवस्य यशस्विनीम्॥ 2-3-5(11332)
मनः प्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम्।
अस्ति बिन्दुसारस्युग्रा गदा च कुरुनन्दन॥ 2-3-6(11333)
निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून्।
सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा॥ 2-3-7(11334)
सा वै शतसहस्रस्य सम्मिता शत्रुघातिनी।
अनुरूपा च भीमस्य गाण्डीवं भवतो यथा॥ 2-3-8(11335)
वारुणश्च महाशङ्खो देवदत्तः सुघोषवान्।
सर्वमेतत्प्रदास्यामि भवते नात्र संशयः॥ 2-3-9(11336)
वैशम्पायन उवाच। 2-3-10x(1383)
इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीं दिशं गतः।
अथोत्तरेण कैलासान्मैनाकं पर्वतं प्रति॥ 2-3-10(11337)
हिरण्यशृङ्गः सुमहान्महामणिमयो गिरिः।
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः॥ 2-3-11(11338)
द्रुष्टुं भागीरथीं गङ्गामुवास बहुलाः समाः।
यत्रेष्टं सर्वभूतानामीश्वरेण महात्मना॥ 2-3-12(11339)
आहृताः क्रतवो मुख्याः शतं भरतसत्तम।
यत्र यूपा मणिमयाश्चैत्याश्चापि हिरण्मयाः॥ 2-3-13(11340)
शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः।
यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः॥ 2-3-14(11341)
यत्र भूतपतिः सृष्ट्वा सर्वाँल्लोकान्सनातनः।
अपस्यते तिग्मतेजाः स्थितो भूतैः सहस्रशः॥ 2-3-15(11342)
नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः।
उपासते यत्र परं सहस्रयुगपर्यये॥ 2-3-16(11343)
यत्रेष्टं वासुदेवेन सत्त्रैर्वर्षगणान्बहून्।
श्रद्दधानेन सततं धर्मसम्प्रतिपत्तये॥ 2-3-17(11344)
सुवर्णमालिनो यूपाश्चैत्याश्चाप्यतिभास्वराः।
ददौ यत्र सहस्राणि प्रयुतानि च केशवः॥ 2-3-18(11345)
तत्र गत्वा स जग्राह गदां शङ्खं च भारत।
`तस्माद्गिरेरुपादाय शिलाः सुरुचिरावहाः'।
स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः॥ 2-3-19(11346)
किङ्करैः सह रक्षोभिर्यदरक्षन्महद्धनम्।
तदगृह्णान्मयस्तत्र गत्वा सर्वं महाऽसुरः॥ 2-3-20(11347)
तदाहृत्य च तां चक्रे सोऽसुरोऽप्रतिमां सभाम्।
विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम्॥ 2-3-21(11348)
गदां च भीमसेनाय प्रवरां प्रददौ तदा।
देवदत्तं चार्जुनाय शङ्खप्रवरमुत्तमम्॥ 2-3-22(11349)
यस्य शङ्खस्य नादेन भूतानि प्रचकम्पिरे।
`स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य च॥ 2-3-23(11350)
सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम्।
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः॥ 2-3-24(11351)
सर्वर्तुगुणसम्पन्नां दिव्यरूपामलङ्कृताम्।
तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः।
सभा च सा महाराज शातकुम्भमयद्रुमा॥ 2-3-25(11352)
दशकिष्कुसहस्राणि समन्तादायताभवत्।
यथा वह्नेर्यथार्कस्य सोमस्य च यथा सभा॥ 2-3-26(11353)
भ्राजमाना तथाऽत्यर्थं दधार परमं वपुः।
अभिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम्॥ 2-3-27(11354)
प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा।
नवमेघप्रतीकाशा दिवमाकृत्य विष्ठिता।
आयता विपुला रम्या विपाप्मा विगतक्लमा ॥ 2-3-28(11355)
उत्तमद्रव्यसम्पन्ना रत्नप्राकारतोरणा।
बहुचित्रा बहुधना सुकृता विश्वकर्मणा॥ 2-3-29(11356)
न दाशार्ही सुधर्मा वा ब्रह्मणो वाथ तादृशी।
सभा रूपेण सम्पन्ना यां चक्रे मतिमान्मयः॥ 2-3-30(11357)
तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च।
सभामष्टौ सहस्राणि किङ्करा नाम राक्षसाः॥ 2-3-31(11358)
अन्तरिक्षचरा घोरा महाकाया महाबलाः।
रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः॥ 2-3-32(11359)
तस्यां सभायां नलिनीं चकाराप्रतिमां मयः।
वैदूर्यपत्रविततां मणिनालमयाम्बुजाम्॥ 2-3-33(11360)
पद्मसौगन्धिकवतीं नानाद्विजगणायुताम्।
पुष्पितैः पङ्कजैश्चित्रां कूर्मैर्मत्स्यैश्च काञ्चनैः।
चित्रस्फटिकसोपानां निष्पङ्कसलिलां शुभाम्॥ 2-3-34(11361)
मन्दानिलसमुद्धूतां मुक्ताबिन्दुभिराचिताम्।
महामणिशिलापट्टबद्धपर्यन्तवेदिकाम्॥ 2-3-35(11362)
मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः।
दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत ॥ 2-3-36(11363)
तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः।
आसन्नानाविधा लोलाः शीतच्छाया मनोरमाः॥ 2-3-37(11364)
काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः।
हंसकारण्डवोपेताश्चक्रवाकोपशोभिताः॥ 2-3-38(11365)
जलजानां च पद्मानां स्थलजानां च सर्वशः।
मारुतो गन्धमादाय पाण्डवान्स्म निषेवते॥ 2-3-39(11366)
ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः।
निष्ठितां धर्मराजाय मयो राजन्न्यवेदयत्॥ ॥ 2-3-40(11367)

इति श्रीमन्महाभारते सभापर्वणि तृतीयोऽध्यायः॥ 3॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.